(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.53. अध्यायः 053
Mahabharata - Bhishma Parva - Chapter Topics
द्रोणधृष्टद्युम्नयोर्युद्धम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

धृतराष्ट्र उवाच। 6-53-0x(4117)(40858)
कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः।
उभौ समीयतुर्यत्तौ तन्ममाचक्ष्व सञ्जय ॥ 6-53-1(40859)
दिष्टमेव परं मन्ये पौरुषादिति मे मतिः।
यत्र शान्तनवो भीष्मो नातरद्युधि पाण्डवम् ॥ 6-53-2(40860)
भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान्।
स कथं पाण्डवं युद्धे नातरत्सञ्जयौजसा ॥ 6-53-3(40861)
सञ्जय उवाच। 6-53-4x(4118)
श्रृणु राजन्स्थिरो भूत्वा युद्धमेतत्सुदारुणम्।
न शक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥ 6-53-4(40862)
द्रोणस्तु निशितैर्बाणैर्धृष्टद्युम्नमविध्यत।
सारथिं चास्य भल्लेन रथनीडादपातयत् ॥ 6-53-5(40863)
तथाऽस्य चतुरो वाहांश्चतुर्भिः सायकोत्तमैः ।
पीडयामास संक्रुद्धो धृष्टद्युम्नस्य मारिष ॥ 6-53-6(40864)
धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः ।
विव्याध प्रहसन्वीरस्तिष्ठतिष्ठेति चाब्रवीत् ॥ 6-53-7(40865)
ततः पुनरमेयात्मा भारद्वाजः प्रतापवान्।
शरैः प्रच्छादयामास धृष्टद्युम्नममर्षणम् ॥ 6-53-8(40866)
आददे च शरं घोरं पार्षतान्तचिकीर्षकया।
शक्राशनिसमस्पर्शं कालदण्डमिवापरम् ॥ 6-53-9(40867)
हाहाकारो महानासीत्सर्वसैन्येषु भारत ।
तमिषुं संधितं दृष्ट्वा भारद्वाजेन संयुगे ॥ 6-53-10(40868)
तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम्।
यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः ॥ 6-53-11(40869)
तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः ।
चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह ॥ 6-53-12(40870)
तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह।
धृष्टद्युम्नेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ॥ 6-53-13(40871)
ततः शक्तिं महावेगां स्वर्णवैडूर्यभूषिताम् ।
द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी ॥ 6-53-14(40872)
तामापतन्तीं सहसा शक्तिं कनकभूषिताम्।
त्रिधा चिच्छेद समरे भारद्वाजो हसन्निव ॥ 6-53-15(40873)
शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतपवान् ।
ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वरः॥ 6-53-16(40874)
शरवर्षं ततस्तत्तु सन्निवार्य महायशाः।
द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम् ॥ 6-53-17(40875)
स च्छिन्नधन्वा समरे गदां गुर्वी महायशाः ।
द्रोणाय प्रेषयामास गिरिसारमयीं बली ॥ 6-53-18(40876)
सा गदा वेगवन्मुक्ता प्रायाद्द्रोणजिघांसया ।
तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् ॥ 6-53-19(40877)
लाघवाद्व्यंसयामास गदां हेमविभूषिताम्।
व्यंसयित्वा गदां तां च प्रेषयामास पार्षतम् ॥ 6-53-20(40878)
भल्लान्सुनिशितान्पीतातान्रुक्मपुङ्खान्सुदारुणान्।
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥ 6-53-21(40879)
अथान्यद्धनुरादाय धृष्टद्युम्नो महारथः ।
द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः ॥ 6-53-22(40880)
रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ ।
वसन्तसमये राजन्पुष्पिताविव किंशुकौ ॥ 6-53-23(40881)
अमर्षितस्ततो राजन्पराक्रम्य चमूमुखे ।
द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम् ॥ 6-53-24(40882)
अथैनं छिन्नधन्वानं शरैः सन्नतपर्वभिः ।
अभ्यवर्षदमेयात्मा वृष्ट्या मेघ इवाचलम् ॥ 6-53-25(40883)
सारथिं चास्य भल्लेन रथनीजादपातयत् ।
अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ॥ 6-53-26(40884)
पातयामास समरे सिंहनादं ननाद च।
ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत् ॥ 6-53-27(40885)
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
गदापाणिरवारोहत्स्व्यापयन्पौरुषं महत्॥ 6-53-28(40886)
तामस्य विशिस्वैस्तूर्णं पातयामास भारत ।
रथादनवरूढस्य तदद्भुतमिवाभवत् ॥ 6-53-29(40887)
ततः स विपुलं चर्म शतचन्द्रं च भानुमत्।
खङ्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली ॥ 6-53-30(40888)
अभिदुद्राव वेगेन द्रोणस्य वधाकाङ्क्षया।
आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम् ॥ 6-53-31(40889)
तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् ।
लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत ॥ 6-53-32(40890)
यदेनं शरवर्षेण वारयामास पार्षतम् ।
न शशाक ततो गन्तुं बलवानपि संयुगे ॥ 6-53-33(40891)
निवारितस्तु द्रोणेन धृष्टद्युम्नो महारथः ।
न्यावारयच्छरौघांस्तांश्चर्मणा कृतहस्तवत् ॥ 6-53-34(40892)
ततो भीमो महाबाहुः सहसाऽभ्यपतद्बली ।
साहाय्यकारी समरे पार्षतस्य महात्मनः ॥ 6-53-35(40893)
स द्रोमं निशितैर्बाणै राजन्विव्याध सप्तभिः ।
पार्षतं च रथं तूर्णं स्वकमारोहयत्तदा॥ 6-53-36(40894)
ततो दुर्योधनो राजन्कलिङ्गं समचोदयत्।
सैन्येन महता युक्तं भारद्वाजस्य रक्षणे ॥ 6-53-37(40895)
ततः सा महती सेन कलिङ्गानां जनेश्वर ।
भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात् ॥ 6-53-38(40896)
पाञ्चाल्यमथ संत्यज्य द्रोणोऽपि रथिनां वरः।
विराटद्रुपदौ वृद्धौ वारयामास संयुगे॥ 6-53-39(40897)
धृष्टद्युम्नोऽपि समरे धर्मराजानमभ्ययात्।
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ॥ 6-53-40(40898)
कलिङ्गानां च समरे भीष्मस्य च महात्मनः ।
जगतः प्रक्षयकरं घोररूपं भयावहम् ॥ ॥ 6-53-41(40899)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे त्रिपञ्चाशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes
6-53-3 नातरत् न लङ्घितवान् ॥ 6-53-5 नीडात् स्थानात् ॥ 6-53-20 व्यंसयामास वञ्चयतिस्म ॥ 6-53-21 पीतान् पायितजलान् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.